September 23rd, 2017

koteg_urla

Подражание Панчатантре



स बिडालको लकाराणां समानाधिकरण्यमेतस्मिन्व्याकरणेऽधीतुं वाञ्छेत्किन्तु तस्य सनखाः पादा वर्तन्ते ॥ अरे बिडालक । न त्वं व्यसितुमर्हत्येतत्पुस्तकं स्वनखैरिति मम प्रार्थना ॥ नैष ग्रन्थो विच्छेदनाय परन्त्वध्ययनायैवेति यावत् ॥ तस्मादपसर इति परितापेन​ वावदीमि तस्मै बिडालाय ॥

यथोक्तं कुत्रचित्केनचित्

पक्षिणो न भवन्तीह ग्रन्थोऽयं न तु नीडकः ।
मा दारीः पुस्तकं वै तल्लकारा हि न भोजनम् ॥ इति सर्वस्मिल्ँलोके सुप्रसिद्धम् । Collapse )