?

Log in

No account? Create an account

August 21st, 2019



भयाष्टकम् ॥
भयम् अर्थवतो नास्ति सलिलाच्चैव राजतः ।
अनलाच्चौरतश्चैव सर्वेषां मरणाद्भयम् ॥१॥
भयं मम वरं मित्रं मच्छत्रुर्निर्भयं स्मृतम् ।
भीतिः पालयते मृत्योर्निर्भयं त्वन्तनायकः ॥२॥
भीरुर्जीवति लोकेऽस्मिन्व्यालकैर्नैव भक्षितः ।
न हतो दुर्जनैः क्रूरैर्वीरस्त्वेव प्रणश्यति ॥३॥
भैरवं भयकर्तारं वन्दे रावकरं तथा ।
मत्स्वरूपं भयं ज्ञातं भीतिर्मे प्रियकन्यका ॥४॥
प्रधानं जगतो भीतिर्भयं राज्यं करोति च
राजा पुरोहितो मन्त्री तेभ्यो भीतिस्तु धर्मिणाम् ॥५॥
यस्य भीतिर्जनानां वा पक्षिणां कृमिणां सदा ।
राक्षसानां पिशाचानां महाभीतिः स उच्यते ॥६॥
शशकं भीतिमन्तं तं वन्दे वै दीर्घकर्णकम् ।
कर्णाभ्यां श्रूयते भीतिः पादुभिस्तस्य पालनम् ॥७॥
भयं चेति पदे नित्यं भकारो भैरवे मतः ।
यकारस्तु यमे युक्तो युगलं मृत्युरक्षणे ॥८॥

Read more...Collapse )

Profile

moj lik
edgar_leitan
Эдгар Лейтан

Latest Month

October 2019
S M T W T F S
  12345
6789101112
13141516171819
20212223242526
2728293031  

Tags

Powered by LiveJournal.com