December 4th, 2019

moj lik

Муркхапуранa о "языке ненависти"



मूर्खपुराणे काचित्कथा

इदानीन्तनकाले वै विवादा रे भयङ्कराः ।
सभायां विप्रवादेऽस्मिन्विपक्षो द्वेषवाग्भवेत् ॥१॥

द्वेषवाद इति प्रोक्तः पराणां शस्त्रमुत्तमम् ।
एतद्द्वेषप्रसरणं क्रोशन्ति विजिगीषवः ॥२॥

विवादो भूतले मा भून्नीतिज्ञैरुच्यते सदा ।
अभूतेऽस्मिंश्च वादे ह चोरेभ्यः श्रुष्टिरन्ततः ॥३॥ Collapse )
moj lik

Miscellanea ślokaiḥ



त्रिशूलत्रिकम् ॥

अहं त्वं चैव तच्चैवं भिद्यते परमेश्वरः ।
शिवोऽहमिति मन्त्रेण शूलपाणेः परिभ्रमः ॥१॥

त्रिकं हि मूलं जगतः शिवः शक्तिश्च जन्तवः।
जाग्रत्स्वप्नः सुषुप्तिस्तदुपायानां त्रयं तथा ॥२॥

शिवो विष्णुश्च देवी च देवभेदस्त्रिवर्गतः ।
देवानां भूरिता तद्वत्त्रिशूलत्वेन दृश्यते ॥३॥ Collapse )