Top.Mail.Ru
? ?

Previous Entry | Next Entry



आधुनिकायाः फिरङ्गकलायाः क्रूरत्वमिति सर्वेषां धीमतां नृणां स्पष्टतमम् । तस्मिन्विषये किं वक्तव्यं मयाऽश्रुपूर्णाकुलक्षणेनेति चेत् । कलायाः स्वभावः स्वरूपं वा सौन्दर्यमिति मतं मे सुनिश्चितम् । सौन्दर्यं श्रीरिति स्पष्टम् ॥ यया शक्त्योत्कृष्यत आत्मा नरस्य सर्वस्यामवस्थायां सा श्रीरिति स्मृतम् ॥ तस्मिन्न सति कुरूपत्वं विकृतभावतया विजयेताऽधुनिके कलिकाललोके ॥ तेन कुरूपत्वेन सर्वमिव व्याप्यतेतराम् ॥ आधुनिकैव धार्मा कला तथाऽस्ति ॥ यत्प्रसिद्धेनेदानीन्तनेन तत्त्वविदा Sir Roger Scruton-इति नामधेयेनोक्तं सुन्दरं कलाकार्यं दुःखसन्तापने समाश्वासं रत्यनुभवे त्ववधारणमावहतीति ॥ सौन्दर्ये तु न सति न शक्यते वै कुरूपत्वेन सन्तोषं रतिं वाऽऽनन्दं वाऽनुभवितुमिति न संशयो मम ॥ आधुनिका कला तु प्रायः विषादमेव भयं चाऽऽनयति ॥ तस्मात्तस्याः क्रूरत्वमित्युक्तमभूदादौ ॥ किं नु नबुना ॥

Profile

moj lik
edgar_leitan
Эдгар Лейтан

Latest Month

September 2023
S M T W T F S
     12
3456789
10111213141516
17181920212223
24252627282930

Tags

Comments

Powered by LiveJournal.com